SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ H2SOOOOOOsdoa चेत् ? उच्यते, इह महादण्डके पञ्चेन्द्रियतिर्यमपुंसकेभ्योऽसङ्ख्येयगुणहीना व्यन्तराः पठ्यन्ते, तत एषां विष्कम्भसूचिरपि तिर्यपञ्चेन्द्रियविष्कम्भसूचेरसङ्ख्येयगुणहीना वक्तव्या इति, आह च मूलटीकाकारोऽपि,-"जम्हा महादंडए पंचिंदियतिरियनपुंसएहिंतो असंखेजगुणहीणा वाणमंतरा पढिजंति, तम्हा विक्खंभसूईवि तेहिंतो असंखेजगुणहीणा चेव भाणियचा' इति, सम्प्रति प्रतिभाग उच्यते-प्रतिभागो नाम खण्डं, 'संखेजजोयणसयवग्गपलिभागो पयरस्स' इति सङ्ख्यययोजनशतवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः, इयमत्र भावनाअसङ्ख्येययोजनशतवर्गप्रमाणे श्रेणिखण्डे यदि एकैको व्यन्तरः स्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवा यद्येकैकव्यन्तरापहारे एकैकं सङ्ख्यययोजनशतवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र व्यन्तरा निष्ठां यान्ति परतः सकलं प्रतरमिति, मुक्तान्यौधिकमुक्तवत् , आहारकाणि नैरयिकवत् , तैजसकार्मणानि बद्धानि बद्धवैक्रियवत् , मुक्तान्यौधिकमुक्तवत् । ज्योतिष्काणामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्ख्येयानि, तत्र कालतो मार्गणायां प्रतिसमयमेकैकापहारे सामस्त्येनासङ्ग्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, ताश्च श्रेणयः प्रतरासङ्ख्येयभागप्रमिताः, तथा चाह-'जोइसियाणं एवं चेव' इति. नवरमित्यादिना विशेष दर्शयति, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, इयमपि सुप्रसिद्धत्वानोक्ता, कथमियं सुप्रसिद्धेति चेत् ?, उच्यते, यस्मान्महादण्डके व्यन्तरेभ्यो ज्योतिष्काः सङ्ग्येयगुणा उक्तास्तत एतेषां विष्कम्भसूचिरपि तेषां विष्कम्भसूचेः सङ्ख्ये dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy