________________
प्रज्ञापनायाः मलय. वृत्ती.
॥२८२॥
षोडशलक्षणं ततस्तृतीयेन वर्गमूलेनासत्कल्पनया विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति । १२ शरीअसत्कल्पनया द्वात्रिंशत् एतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावत् मनुष्या अपि निष्ठामु- रपदं पयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणायाः असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते, क्षेत्रस्यातिसूक्ष्मत्वात् , उक्तं च सूत्रेऽपि-"सुहृमो य होइ कालो तत्तो सुहुमयरयं हवइ खेत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेजा ॥१॥” इति, मुक्तान्यौधिकमुक्तवत्, वैक्रियाणि बद्धानि सङ्ख्येयानि, गर्भव्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसंभवात् , मुक्तान्यौधिकमुक्तवत् , आहारकाण्यौघिकाहारकवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां, वैकियाणि बद्धान्यसङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायां प्रतिसमयमेकैकापहारे असङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, ताश्च श्रेणयः कियत्य इति चेत् ?, उच्यते, प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता इत्यर्थः, तथा चाह-वउवि| यसरीरा जहा नेरइयाण'मिति, वैक्रियशरीराणि व्यन्तराणां यथा नैरयिकाणां, केवलं सूच्यां विशेषः, तथा चाह
॥२८॥ 'नवर'मित्यादि, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, सा च सुप्रसिद्धत्वानोक्ता, कथं सुप्रसिद्धति
१ सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रं । अङ्गुलमात्रायां श्रेणावुत्सर्पिण्योऽसङ्खधेयाः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org