________________
POS999999999
चतुर्थः षोडश पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः, कथमेतदवसेयमिति चेत ?, उच्यते, इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोईयोरपि छेदनकानि प्राप्यन्ते, यथा प्रश्रमवर्गेण गुणिते द्वितीयवर्गे षट्र, तथाहि-द्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् द्वितीयं षोडश तृतीयमष्टी चतुर्थ चत्वारः पञ्चमं द्वौ षष्ठं एक इति, एवमन्यत्रापि भावनीयं, तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गेण षष्ठे वगै गुणिते| षण्णवतिछेदनकानि प्राप्यन्ते, अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृतं च सत् यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यं एष षण्णवतिच्छेदनकदायी राशिरिति, तदेवं जघन्यपदमभिहितम् , इदानीमुत्कृष्टपदमाह-'उक्कोसपए असंखेजा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असङ्खयेयाः, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकमनुष्यापहारे सामस्त्येनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिसें मनुष्यरेका श्रेणिः परिपूर्णाऽपहियते, किमुक्तं भवति १-उत्कृष्टपदे ये मनुष्यास्तेषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, किमुक्तं भवति-अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्तस्य यत्प्रथमं वर्गमूलमसत्कल्पनया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org