SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय. वृत्तौ . ॥२८॥ गण्यते, द्वयोर्गश्चत्वारः एष प्रथमो वर्गः ४, चतुर्णा वर्गः षोडश एष द्वितीयो वर्गः १६, षोडशानां वर्गे द्वे शते १२ शरीषट्पञ्चाशदधिके एष तृतीयो वर्गः २५६, द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि | रपदं षत्रिंशदधिकानि, एष चतुर्थो वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिंशत्कोट्यः एकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षण्णवत्यधिके एष पञ्चमो वर्गः ४२९४९६७२९६, उक्तं च-"चत्तारि य कोडिसया अउणत्तीसं च होन्ति कोडीओ। अउणावनं लक्खा सत्तट्ठी चेव य सहस्सा ॥१॥ दो य सया छण्णउया पंचमवग्गो समासओ होइ । एयस्स कतो वग्गो छट्ठो जो होइ तं वोच्छं ॥२॥” एतस्य पञ्चमस्य वर्गस्य | यो वर्गः स षष्ठो वर्गः, तस्य परिमाणमेकं कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्टय-1 धिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि ९ पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि पद शतानि षोडशोत्तराणि, १८४४६७४४०७३७०९५५१६१६ एष षष्ठो वर्गः, उक्तं च-"लक्खं कोडाकोडी चउरासीइ भवे सहस्साई। चत्तारि य सत्तट्ठा होंति सया कोडीकोडीणं ॥१॥ चउयालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिणि सया सत्तयरी कोडीणं हुंति नायवा ॥२॥ पंचाणउई ॥२८॥ लक्खा एकावन्नं भवे सहस्साई। छसोलसुत्तरसया एसो छटो हवइ वग्गो ॥३॥” इति, एष षष्ठो वर्गः पञ्चमवर्गेण गुण्यते, गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते च एतावन्तो भवन्ति, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy