________________
999999999999999
ग्रहणं, यदाह मूलटीकाकारः-"सेतराणां ग्रहणमुत्कृष्टपदे, जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहण"मिति, अस्मिन् जघन्यपदे सङ्ख्येया मनुष्याः, तत्र सङ्ख्येयकं सङ्ख्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसङ्ख्यां निर्धारयति-सङ्ख्येयाः कोटीकोव्यः, अथवा इदमन्यत् विशेषतरं परिमाणं-'तिजमलपयस्स उवरिं चउजमलपयस्स हेट्टा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदङ्कस्थानानि प्रक्ष्यमाणानि, तत्र समयपरिभाषया अष्टानां अष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाङ्कस्थानः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथ च यमलपदमष्टभिरङ्कस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि-पञ्चभिरङ्कस्थानवर्द्धमानत्वात् चतुर्थस्य च यमलपदस्थाधस्तात्-त्रिभिरङ्कस्थानहीनत्वात् , अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलं चत्वारो वर्गाः समुदिता द्वे यमले षडू वर्गाः समुदितास्त्रीणि यमलपदानि अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तंत्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-त्रितयानां यमलपदानां समाहारस्त्रियमलपदं| तस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं तस्य, सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति–'अहव णं छ?-| वग्गो पंचमवग्गपडप्पण्णो' इति अथवेति पक्षान्तरे णमिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्र एकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गो न
Jain Education Temational
For Personal & Private Use Only
www.jainelibrary.org