________________
प्रज्ञापनाया: मलय०वृत्ती.
१२ शरीरपदं
Poeब
॥२७९॥
भागे यावन्त आकाशप्रदेशास्तावत्प्रदेशात्मिका सूचिः परिगृह्यते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि तिर्यक्रपञ्चेन्द्रियाणां बद्धानि क्रियशरीराणि, उक्तं च-"अङ्गुलमूलासंखेयभागप्पमियाउ होंति सेढीओ । उत्तरविउबियाणं तिरियाणं सन्निपजाणं ॥१॥" मुक्तान्यौधिकमुक्तवत्, तैजस
कार्मणानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत् , मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित् & सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ?, उच्यते, इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः
सम्मूछिमाश्च, तत्र गर्भव्युत्क्रान्तिकाः सदावस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकममुष्यरहितो भवति, सम्मूछिमाश्च कदाचिद्विद्यन्ते कदाचित्सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहूर्तायुष्कत्वात्, उत्पत्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात् , ततो यदा सर्वथा सम्मूछिममनुष्या न विद्यन्ते किन्तु केयला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात् सङ्ख्ययाः, सङ्ख्येयानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्तित्वात् , यदा तु सम्मूछिमास्तदा असङ्ख्येयाः, सम्मूछिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्, तथा चाह-'जहन्नपदे संखेजा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोकाः मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूछिमाणां ग्रहणमुत गर्भव्युत्क्रान्तिकानां ?, उच्यते, गर्भव्युत्क्रान्तिकानां, तेषामेव सदाऽवस्थायितया सम्मूछिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् , उत्कृष्टपदे तूभयेषामपि
॥२७९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org