________________
'बेइंदियाण'मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्बद्धैः प्रतरमसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहि-18 यते, अत्र प्रतरमिति क्षेत्रतः परिमाणं उत्सपिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह–'अंगुलपयरस्स आवलियाए य असंखेजइभागपलिभागेणं'ति, अङ्गुलमात्रस्य प्रतरस्य-एकप्रादेशिकश्रेणिरूपस्य असङ्ख्येयभागप्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया असङ्ख्येयभागप्रतिभागेनासंख्येयतमेन प्रतिभागेन, किमुक्तं भवति?-एकेन द्वीन्द्रियेणाङ्गलासंख्येयभागप्रमाणं खण्डमावलिकाया असङ्ख्येयतमेन भागेनापहियते, द्वितीयेनापि तावत्प्रमाणं खण्डं तावता कालेन, एवमपहियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सकलमपहियते इति. मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्बद्धानि तेषां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि । तिर्यपञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयासु श्रेणिषु यावन्तः आकाशप्रदे-12 शास्तावत्प्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, तथा चाह-'जहा असुरकुमाराण'मिति, | यथा असुरकुमाराणां तथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायां तत्राङ्गलप्रमाणवर्गमूलस्य सङ्ख्ययो भाग उक्त इह त्वसङ्ख्ययो भागो वक्तव्यः, किमुक्तं भवति ?-अङ्गलमात्रक्षेत्रप्रदेशराशेः यत्प्रथम वर्गमूलं तस्यासङ्खये यतमे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org