SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ वर्गमूलं एतानि सर्वाण्यप्येकत्र सङ्कल्प्यन्ते तेषु च सङ्कल्पितेषु यावान् प्रदेशराशिर्भवति तावत्प्रदेशात्मिका विष्कम्भसूचिरवसेया, अत्र निदर्शनं - श्रेणी किल प्रदेशा असङ्ख्याता अप्यसत्कल्पनया पञ्चषष्टिः सहस्राणि पञ्च शतानि षटूत्रिंशदधिकानि ६५५३६, तेषां प्रथमं वर्गमूलं द्वे शते षट्पञ्चाशदधिके २५६ द्वितीयं षोडश १६ तृतीयं चत्वारः ४ चतुर्थ द्वौ २, एतेषां च सङ्कलने जाते द्वे शते अष्टसप्तत्यधिके २७८, एतावता किलासत्कल्पनया प्रदेशानां सुचिरिति, अथैते द्वीन्द्रियाः किंप्रमाणाभिरवगाहनाभिरास्तीर्यमाणाः कियता कालेन सकलं प्रतरमापूरयन्ति १, उच्यते, अङ्गुलासङ्ख्येभागप्रमाणाभिरवगाहनाभिः प्रत्यावलिकाऽसङ्ख्येयभागमे कैकावगाहनारचनेनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरापूर्यन्ते इयमत्र भावना - एकैकस्मिन्नावलिकायाः असङ्ख्येयतमे भागे एकैका अङ्गुलासङ्ख्येयप्रमाणा अवगाहना रच्यते, | ततोऽसङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यते एतदेवापहारद्वारेण सूत्रकृदाह Jain Education International बेदियाणं ओरालियस रेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियाते य असंखेजतिभागपलिभागेणं, तत्थ णं जे ते मुकेल्लगा ते जहा ओहिया ओरालियमुक्केलगा, वेडविया आहारगा य बद्धिलगा णत्थि, मुकिल्लागा जहा ओहिया ओरालियमुक्केलगा, तेयाकम्मगा जहा एतेसिं चेव ओहिया ओरालिया, एवं जाव चउरिंदिया । पंचिंदियतिरिक्खजोणियाणं एवं चेव, नवरं वेउधियसरीरएसु इमो विसेसो पंचिंदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरया पं०, गो० ! दु० पं० - बद्धे० मुके०, तत्थ णं जे ते बद्वेल्लया ते णं For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy