________________
रपद
प्रज्ञापनायाः मलय. वृत्तौ.
॥२७७॥
माणा एव पृच्छासमये वायवो वैक्रियवर्तिनोऽवाप्यन्ते नाधिका इति, इह केचिदाचक्षते-सर्वे वायवो वैक्रियव-18|| १२ शरी|र्तिन एव, अवैक्रियाणां चेष्टाया एवासम्भवात् , तदसमीचीनं, वस्तुगतेरपरिज्ञानात् , वायवो हि खभावाचलास्ततो| बैक्रिया अपि ते बान्ति इति प्रतिपत्तव्यं, वाताद्वायुरिति व्युत्पत्तेः, आह च चूर्णिकृत्-"जेण सबेसु चेव लोगागासेसु चला वायवो वायंति तम्हा अवेउवियावि वाया वायंतीति पित्तव"मिति, मुक्तानि वैक्रियाण्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत्, बनस्पतिकायिकचिन्तायामौदारिकाणि पृथिव्यादिवत् , तैजसकार्मणान्यौधिकतैजसकार्मणवत् । द्वीन्द्रियसूत्रे बद्धान्यौदारिकशरीराणि असङ्ख्ययानि, ततः कालतः परिमाणचिन्तायामसञ्जयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते-असङ्ख्यातासूत्सपिण्यवसर्पिणीषु यावन्तः समयास्तावतप्रमाणानीति भावः, क्षेत्रतोऽसङ्ख्येयाः श्रेणयोऽसङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, तासां श्रेणीनां परिमाणविशेषनिर्धारणार्थमाह-प्रतरासङ्ख्येयभागः प्रतरस्थासङ्ख्येयभागप्रमिता असङ्ख्येया श्रेणयः परिगृह्यन्ते इति भावः। प्रतरासङ्ख्येयभागो नैरयिकभवनपतीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थ
॥२७७॥ सूचीमानमाह-'तासि णं सेढीण मित्यादि, तासां श्रेणीनां परिमाणावधारणाय या विष्कम्भसूची सा असङ्ख्येया योजनकोटीकोट्यः असङ्ख्येययोजनकोटीकोटिप्रमाणा इत्यर्थः, अथवेदमन्यद्विशेषतः परिमाणं-'असंखेजाई सेढिवग्गमूलाई' इति, एकस्याः परिपूर्णायाः श्रेणेयः प्रदेशराशिस्तस्य प्रथमं वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं यावदसङ्ख्येयतम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org