SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ यभागप्रदेशात्मिकेति, युक्तं चैतत् , यस्मान्महादण्डके सर्वेऽपि भवनपतयो रत्नप्रभानैरयिकेभ्योऽप्यसङ्ख्येयगुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसङ्ख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकामणानि बद्धानि बद्धवैक्रियवत् मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमाराणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावत्स्तनितकुमाराणां । पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असङ्ख्येयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसङ्ख्येयालोकाः-आत्मीयावगाहनाभिरसङ्ख्येया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि |वद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत् , वातकायस्याप्यौदारिकशरीराणि पृथिव्यादिवत् , वैक्रियाणि बद्धान्यसङ्ख्येयानि, तानि च प्रतिसमयमेकैकशरीरापहारे पल्योपमासङ्ख्येयभागेन निःशेषतोऽपहियन्ते, किमुक्तं भवति - पल्योपमासङ्ख्येयभागे यावन्तः समयास्तावत्प्रमाणानीति न पुनरभ्यधिकानि स्युः, तथाहि-वायुकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा बादराश्च, एकैके द्विधा-पर्याप्ता अपर्याप्ताश्च, तत्र बादरपर्याप्तव्यतिरिक्ताः शेपास्त्रयोऽपि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु बादरपर्याप्तास्ते प्रतरासङ्ख्येयभागप्रमाणाः, तत्र त्रयाणां राशीनां वैक्रियलब्धिरेव नास्ति, बादरपर्याप्तानामपि सङ्ख्येयभागमात्राणां लब्धिः न शेषाणां, आह च चूर्णिकृत्-"तिण्हं ताव रासीणं वेवियलद्धी चेव नत्थि, बायरपजत्ताणंपि संखेजइभागमेत्ताणं लद्धी अत्थि"त्ति, ततः पल्योपमासङ्ख्येयभागसमयप्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy