________________
द्रव्यतः परिमाणं सर्वजीवेभ्योऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इह एकैकस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमुक्तानि सन्ति प्रागुक्तयुक्तेरनन्तभेदभिन्नानि भवन्ति, तेषां चासङ्ख्येयं कालं यावदवस्थानं, तावता च कालेन जीवैर्विप्रमुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसङ्ख्येयानि अवाप्यन्ते, तेषामपि प्रत्येकं प्रागु-| क्तयुक्त्या अनन्तभेदभिन्नतेति भवन्ति सर्वजीवेभ्योऽनन्तगुणानि, तत्किं जीववर्गप्रमाणानि भवेयुरत आह-'जीववग्गस्स अणंतभागे' इति, जीववर्गस्यानन्तभागप्रमाणानि, जीववर्गप्रमाणानि कस्मान्न भवन्तीति चेत्, उच्यते, यदि एकैकस्य जीवस्य सर्वजीवराशिप्रमाणानि किञ्चित्समधिकानि वा भवेयुर्येन सिद्धानन्तभागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति, यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति, न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किञ्चित्समधिकानि वा तैजसशरीराणि किन्त्यतिस्तोकानि, तान्यपि असङ्ख्येयकालावस्थायीनीति, तावता कालेन यान्यप्यन्यानि भवन्ति तान्यपि स्तोकानि, कालस्य स्तोकत्वात् , ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्यानन्तभागमात्राणि, अनन्तभागप्रमाणतायां च पूर्वाचार्यप्रदर्शितमिदं निदर्शनं-सर्वजीवास्तत्त्ववृत्त्या अनन्ता अपि असत्कल्पनया दश सहस्राणि, तेषां च दशस-16 हस्राणां वर्गो दश कोट्यः, तैजसशरीराणि च मुक्तान्यसत्कल्पनया दशलक्षप्रमाणानि, ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि, जीववर्गस्य च शततमे भागे वर्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org