SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ १२ शरी प्रज्ञापनायाः मलय०वृत्ती. रपदं ॥२७॥ श्रेणेः प्रतरस्य वा ग्रहणं तत्र सर्वत्राप्येवं घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यावसातव्यं, मुक्तान्यौदारिकवद् भाव-18 नीयानि । आहारकविषयं सूत्रं 'केवइया णं भंते ! आहारगसरीरगा इत्यादि, 'बद्धानि सिय अस्थि सिय नत्थि'। इति अस्तीति निपातो बहुवचनगर्भः कदाचित्सन्ति कदाचित् न सन्तीत्यर्थः, यस्मादन्तरमाहारकशरीरस्य जघन्यत एकः समयः उत्कर्षतः षण्मासाः, उक्तं च-"आहारगाइं लोए छम्मासे जा न होतिवि कयाइ । उक्कोसेणं नियमा एकं समयं जहन्नेणं ॥१॥” इति, यदापि भवन्ति तदाऽपि जघन्यतः एकं द्वे वा उत्कर्षतः सहस्रपृथक्त्वं, मुक्तान्योदारिकवत् । तैजसविषयं सूत्रमाह-'केवइया णं भंते ! तेयगसरीरया' इत्यादि, तत्र बद्धान्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अणंताहिं' इत्यादि, कालतः परिमाणमनन्तोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणानि, द्रव्यतः परिमाणं सिद्धेभ्योऽनन्तगुणानि, तैजसं हि शरीरं सर्वसंसारिजीवानां प्रत्येकं, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, ततस्तैजसशरीराण्यपि सिद्धेभ्योऽनन्तगुणानि भवन्ति, 'सवजीवअर्णतभागूणा' इति सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि, इयमत्र भावना-सिद्धानां तैजसशरीर न विद्यते, सर्वशरीरातीतत्वात् तेषां, सिद्धाश्च सर्वजीवानामनन्तभागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति, मुक्तानि अनन्तानि, तदेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति-'अणंताहिं' इत्यादि, कालक्षेत्रसूत्रे प्राग्वत्, १ आहारकाणि लोके षण्मासान यावन्न भवन्त्यपि कदाचित् । उत्कृष्टतो नियमादेकः समयो जघन्येन ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy