________________
तस्य लोकस्य सर्वतः सप्तरजुप्रमाणस्यायामतः सत्वरज्जुप्रमाणा मुक्तावलिरिवैकाकाशप्रदेशपक्तिः, कथं पुनर्लोको घनीक्रियते ?, कथं वा सप्तरज्जुप्रमाणो भवति इति चेत् ?, उच्यते, इह लोक ऊर्ध्वाधश्चतुर्दशरज्जुप्रमाणोऽधस्ताद्विस्तरतो देशोनसप्तरज्जुप्रमाणः एकरज्जुर्मध्यभागे ब्रह्मलोकप्रदेशे बहुमध्यदेशभागे पञ्चरज्जुरुपरि एका रज्जुर्लोकान्ते, रजोश्च परिमाणं खयम्भूरमणसमुद्रस्य पूर्ववेदिकान्तादारभ्यापरवेदिकान्तं यावत्, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य बुया त्रसनाड्या दक्षिणभागवय॑धोलोकखण्डमधो देशोनत्रिरज्जुविस्तारमतिरिक्तससरज्जूच्छ्रयं परिगृह्य त्रसनाच्या उत्तरपार्थे ऊर्ध्वाधोभागविपर्यासेन सङ्घात्यते-ऊर्ध्वभागोऽधः क्रियते अधोभागस्तूद्धमिति सवात्यते इति, तत ऊर्द्धलोके त्रसनाड्या दक्षिणभागवर्तिनी ये द्वे खण्डे कूर्पराकारसंस्थिते प्रत्येक देशोनार्द्धचतुष्टयरज्जूच्छये ते बुया समादाय वैपरीत्येनोत्तरपार्थे सहायेते. एवं च किं जातम् ?, अधस्तनं लोकार्ध देशोनचतूरज्जुविस्तारं सातिरेकसप्तरज्जूच्छ्रयं उपरितनमर्द्ध त्रिरज्जुविस्तारं देशोनसप्तरज्जूच्छ्रयं, तेन उपरितनमर्द्ध बुद्ध्या गृहीत्वाऽधस्तनस्यार्द्धस्योत्तरपार्थे सङ्घात्यते, तथा च सति सातिरेकसप्तरज्जूच्छयो देशोनसप्तरज्जुविस्तारो घनो जातः, अतः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य ऊर्ध्वाध आयतमुत्तरपार्श्वे सङ्घात्यते, ततो विस्तरतोऽपि परिपूर्णाः सप्त रजवो भवन्ति, एवमेष लोको घनीक्रियते, घनीकृतश्च सप्तरज्जुप्रमाणो भवति, यत्र च क्कचन घनत्वेन सप्तरज्जुप्रमाणता न पूर्यते तत्र बुया परिपूरणीयं, एतच पट्टिकादौ लिखित्वा दर्शयितव्यं, सिद्धान्ते च यत्र क्वचनापि
dan Education International
For Personal & Private Use Only
www.jainelibrary.org