________________
१२ शरीरपदं
प्रज्ञापनाया: मलय०वृत्तौ. ॥२७२॥
दारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपि योवदनन्तभागोऽपि शरीरमिति, कोऽत्राभिप्राय इति चेत् ?, उच्यते, इह यथा लवणपरिणामपरिणतः स्तोको बहुर्वा पुद्गलसङ्घातो लवणमुच्यते तथौदारिकशरीरयोग्यपुद्गलसङ्घातोऽपि औदारिकत्वेन परिणतः स्तोको वा बहुर्वा औदारिकशरीरव्यपदेशं लभते, अथवा भवति समुदायैकदेशेऽपि समुदायशब्दोपचारो, यथा-अमुल्यग्रे स्पृष्टे स्पृष्टो मया देवदत्त इत्यादौ, तत उपचारान्न कश्चिद्दोषः, ननु यद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि ?, उच्यते, प्रदीपप्रकाशवत् , तथाहियथैकस्यापि प्रदीपस्याचीषि सकलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानामहॊषि तत्रैवानुप्रविशन्ति, परस्परमविरोधात् , तथौदारिकाण्यपि, एवं शेषशरीरेष्वपि मुक्तेष्वायोज्यं, ननु द्रव्यक्षेत्रे विहाय किमिति प्रथमतः कालेन प्ररूपणा कृता ?, उच्यते, कालान्तरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा ततः कालो गरीयान् इति । प्रथमतस्तेन प्ररूपणा । उक्तान्यौदारिकाणि, सम्प्रति वैक्रियसूत्रमाह-'केवइया णं भंते !' इत्यादि, बद्धान्यसङ्ख्येयानि, तत्र कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ग्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ?-असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावतप्रमाणानीति, क्षेत्रतोऽसयेयाः श्रेणयस्तासां |श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, किमुक्तं भवति ?-प्रतरस्थासङ्ख्येयतमे भागे यावत्यः श्रेणयस्तासु च श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि बद्धानि वैक्रियशरीराणीति, अथ श्रेणिरिति किमभिधीयते ?, उच्यते, घनीकृ-I
॥२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org