________________
नाप्यौदारिकत्वेन गृहीत्वा मुक्ताः पुद्गलाः तेषामुक्तदोषप्रसङ्गात्, किन्तु यच्छरीरमौदारिकं जीवेन गृहीत्वा मुक्तं तत् विशरारुभावं विभ्राणमनन्तभेदभिन्नं भवति ते चानन्ता भेदा भवन्तो यावत्ते पुद्गला औदारिकपरिणामं न जहति तावत्प्रत्येकमौदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणामं त्यक्तवन्तस्ते न गण्यन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणि जातानि एवं सर्वशरीरेष्वपि भावनीयं, तथा च सत्येकैकस्य शरीरस्यानन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्यन्ते तेषां चासङ्ख्ये यकालमवस्थानं, तेन चासङ्ख्येयेन कालेनान्यानि जीवैर्विप्रमुक्तान्यसङ्ख्येयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तभेदभिन्नानि तेषु च मध्ये तावता कालेन यान्यौदारिकशरीर परिणामं विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते, तत एवं मुक्तानि यथोक्तप्रमाणानन्तसया कान्यौदारिकशरीराण्युपपद्यन्ते इति, न चैतत्खमनीषिकाविजृम्भितं यत आह चूर्णिकृत् – “नवि अविगलाणमेव केवलाणंपि गहणं एयं न य ओरालियगहणमुक्काणं सङ्घपुग्गलाणं, किन्तु जं सरीरमोरालिकं जीवेण मुकं तं चैव अनंतभेयभिन्नं [च] होइ जाव ते पुग्गला तं जीवनिवत्तियं ओरालियसरीरकायप्पओगं न मुंचति न ताव अण्णपरिणामेण परिणमंति ताई पत्तेयं सरीराहं भण्णंति, एवमेक्केकस्स ओरालियसरीरस्स अनंतभेयभिन्नत्तणओ अनंताई चेव ओरालि यसरीराई भवंति" इत्यादि, आह— कथमेकैकशरीरद्रव्यदेशः शरीरत्वेन व्यवहियते ?, उच्यते, लवणदृष्टान्तेन, तथाहि - खार्यपि लवणमुच्यते द्रोणोऽपि लवणमाढकोऽपि लवणं यावदेकापि शर्करा लवणमेवमिहापि सकलमप्यौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org