________________
पिण्डीभावेन क्रमेण स्थाप्यन्ते तदानीं तैरेवमास्तीर्यमाणैरसङ्ख्येया लोका अवाप्यन्ते, इह एकैकस्मिन्नप्याकाशप्रदेशे। एकैकौदारिकशरीरस्थापनया असङ्ख्येया लोका व्याप्यन्ते परं पूर्वाचार्या आत्मीयावगाहनास्थापन या प्ररूपणां कुर्वन्ति ततोऽपसिद्धान्तदोषो मा प्रापदित्यस्माभिरपि तथैव प्ररूपणा क्रियते, आह च चूर्णिकारोऽपि-"जइवि इक्केके पएसे सरीरमेगं ठविजइ तोऽवि असंखेजा लोगा भवंति किंतु अवसिद्धंतदोसपरिहरणथमप्पप्पणियाहिं ओगाहणाहिं ठविजंति" इति, आह-नन्वनन्ता जीवास्ततः कथमसङ्ख्ययान्यौदारिकशरीराणि ?, उच्यते, इह द्विविधा जीवाःप्रत्येकशरीरिणोऽनन्तकायिकाच, तत्र ये ते प्रत्येकशरीरिणस्तेषां प्रतिजीवमेकैकौदारिकशरीरमन्यथा प्रत्येकशरीरत्वायोगात्, ये त्वनन्तकायिकास्तेषामनन्तानामनन्तानामेकैकमौदारिकशरीरमतः सर्वसङ्ख्ययापि असङ्ख्येयान्यौदारिकशरीराणि, मुक्तान्यौदारिकशरीराणि अनन्तानि, तच्चानन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अणंताहिं' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारेऽनन्ताभिरुत्सर्पिण्यवसर्पिणीभिः सर्वात्मनाऽपहियन्ते, किमुक्तं भवति ?अनन्तासु उत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणानीति, क्षेत्रतः परिमाणमनन्ता लोकाः, अनन्तेषु लोकप्रमाणेष्वाकाशखण्डेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, द्रव्यतः परिमाणमभवसिद्धिकेभ्यः-अभव्येभ्योऽनन्तगुणानि, यद्येवं तर्हि सिद्धराशिप्रमाणानि भविष्यन्ति तत आह-सिद्धानामनन्तभागः-अनन्तभागमात्राणि, ननु द्वयोरपि राश्योरभवसिद्धिकसिद्धिरूपयोर्मध्ये पठ्यन्ते प्रतिपतितसम्यग्दृष्टयः तत् किं तद्राशिप्रमाणानि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org