________________
किं आराहते विराहते, गो० ! इच्चेइयाई चत्तारि भासज्जायाई आउत्तं भासमाणे आराहते नो विराहते, तेण परं असंजतअविरयअपडितहत अपच्चक्खायपावकम्मे सच्चं भासं भासतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे नो आराहते विराहते (सूत्रं १७४ ) एतेसि णं भंते ! जीवाणं सच्चभासगाणं मोसभासगाणं सच्चामोसभासगाणं असच्चामोसभासगाणं अभासगाण य कयरेर हिंतो अ० ब० तु० वि० १, गो० ! सवत्थोवा जीवा सच्चभासगा सच्चामोसभासगा असंखिज्जगुणा मोसभासगा असंखेज्जगुणा असच्चामोसभासगा असंखेजगुणा अभासगा अणंतगुणा (सूत्रं १७५ ) । पण्णवणाए भगवईए भासापदं समत्तं ॥ ११ ॥
'कइ णं भंते ! भासज्जाया पण्णत्ता' इत्यादि सुगमं, नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्यादिरक्षणपरतया भाषमाणः, तथाहि — प्रवचनोडाहरक्षणादिनिमित्तं गुरुलाघवपर्यालोचनेन मृषापि भाषमाणः साधुराराधक एवेति, 'तेण पर'मित्यादि, तत आयुक्तभाषमाणात्परोऽसंयतो- मनोवाक्कायसंयमविकलोऽविरतोविरमति स्म विरतो न विरतोऽविरतः सावद्यव्यापारादनिवृत्तमना इत्यर्थः अत एव न प्रतिहतं - मिथ्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिना न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, शेषं पाठसिद्धं । अल्पबहुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्य सर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुद्ध्या भाषते स सत्यभाषकस्ते च पृच्छाकाले कतिपया एव लभ्यन्ते इति सर्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org