________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२४॥
eceae
प्रज्ञप्ता, एकेन्द्रियाणां पञ्चविधत्वात् , तदेव पञ्चविधत्वमाह-तंजहे'त्यादि, पृथिवी-काठिन्यादिलक्षणा प्रतीता प्रज्ञाप|सैव कायः-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, खार्थे इकप्रत्ययः, आपो-द्रवास्ताश्चनापदे एप्रतीता एव ताः काय:-शरीरं येषां तेऽप्कायाः अप्काया एवाप्कायिकाः, तेजो-वह्निः तदेव काय:-शरीरं येषां ते॥
केन्द्रियतेजस्काया तेजस्काया एव तेजस्कायिकाः, वायुः-पवनः स एव कायो येषां ते वायुकायाः वायुकाया एव वायुका
| प्रज्ञा.
(सू.१०) यिकाः, वनस्पतिः-लतादिरूपः स एव कायः-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिका
पृथ्वीकायिकाः । इह सर्वभूताधारत्वात् पृथिव्याः पृथिवीकायिकानां प्रथममुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां,
यप्रज्ञा. अप्कायिकाश्च तेजःप्रतिपक्षभूतास्तत्तदनन्तरं तेजस्कायिकानामुपादानं, तेजश्च वायुसम्पर्कतः प्रवृद्धिमुपयाति तत
(सू.११) एतदनन्तरं वायुकायिकग्रहणं, वायुश्च दूरस्थितो वृक्षशाखादिकम्पनतो लक्ष्यते ततस्तदनन्तरं वनस्पतिकायिकोपादानं ॥ सम्प्रति पृथिवीकायिकमनवबुध्यमानस्तद्विषयं शिष्यः प्रश्नं करोतिसे किं तं पुढविकाइया?, पुढविकाइया दुविहा पण्णत्ता, तंजहा-सुहमपुढविकाइया य बादरपुढविकाइया य । (मू० ११)
अथ के ते पृथिवीकायिकाः?, सूरिराह-पृथिवीकायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाच ॥ २४॥ बादरपृथिवीकायिकाश्च, सूक्ष्मनामकर्मोदयात्सूक्ष्माः बादरनामकर्मोदयाद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, चशब्दः खगतपयर्या
Jain Education International
For Personal & Private Use Only
sanww.jainelibrary.org