SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ च, तत्र द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, तानि च सविस्तरं नन्धध्ययनटीकायां व्याख्यातानीति न भूयो व्या-10 ख्यायन्ते, भावेन्द्रियाणि क्षयोपशमोपयोगरूपाणि, तानि चानियतानि, एकेन्द्रियाणामपि क्षयोपशमोपयोगरूपभावेन्द्रियपञ्चकसम्भवात् , केषाञ्चित्तत्फलदर्शनात्, तथाहि-बकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डूषगन्धाघ्राणरसाखादस्तनाद्यवयवस्पर्शनतः प्रमोदभावेनाकालक्षेपमुपलभ्यन्ते पुष्फफलानि प्रयच्छन्तः, उक्तं च-जकिर बउलाईणं दीसइ सेसिन्दिओवलम्भोऽवि । तेणऽत्थि तदावरणक्खओवसमसम्भवो तेसिं॥१॥" ततो न भावेन्द्रियाणि लौकिकव्यवहारपथावतीर्णैकेन्द्रियादिव्यपदेशनिबन्धनं, किन्तु द्रव्येन्द्रियाणि, तथाहि-येषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रियाः येषां द्वे ते द्वीन्द्रियाः एवं यावद्येषां पञ्च ते पञ्चेन्द्रियाः, आह च-“पंश्चिंदिओवि बउलो नरोव सबविसयोवलम्भाओ। तहवि न भण्णइ पञ्चिन्दिओत्ति बज्झिन्दियाभावा॥१॥" से किन्तं एगेन्दियसंसारसमावण्णजीवपण्णवणा?, एगेन्दियसंसारसमावण्णजीवपण्णवणा पञ्चविहा पन्नत्ता, तंजहा-पुढविका| इया आउकाइया तेउक्काइया वाउक्काइया वणस्सइकाइया (सू०१०) ___ अथ का सा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, सूरिराह-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना पश्चविधा १ यत्किल बकुलादीनां दृश्यते शेषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरणक्षयोपशमसंभवस्तेषाम् ॥ १॥ २ पञ्चेन्द्रियोऽपि बकुलो नर | इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बाह्येन्द्रियाभावात् ॥ १ ॥ 9020208280002029929202007 dan Education Intematonal For Personal & Private Use Only ww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy