SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. १ प्रज्ञापनापदपरम्परसिद्धप्रज्ञा. ॥२३॥ ब्दकरणात् पञ्चमसमयसिद्धादयः परिगृह्यन्ते । 'सेत्त'मित्यादि निगमनद्वयं सुगम, तदेवमुक्ता असंसारसमापन्नजीवप्रज्ञापना ॥ सम्प्रतिसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह से कि तं संसारसमावण्णजीवपण्णवणा?, संसारसमावण्णजीवपन्नवणा पश्चविहा पण्णत्ता, तंजहा-एगेंदियसंसारसमावण्णजीवपण्णवणा बेइन्दियसंसारसमावण्णजीवपण्णवणा तेइन्दियसंसारसमावण्णजीवपण्णवणा चउरिन्दियसंसारसमावण्णजीवपण्णवणा पश्चिन्दियसंसारसमावण्णजीवपण्णवणा(मू०९) | अथ का सा संसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-संसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता,तद्यथा-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापनेत्यादि, तत्रैकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः-पृथिव्यम्बुतेजोवायुवनस्पतयो वक्ष्यमाणखरूपास्ते च ते संसारसमापन्नजीवाश्च तेषां प्रज्ञापना एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, एवं सर्वपदेष्वक्षरघटना कार्या, नवरं द्वे स्पर्शनरसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शङ्खशुक्तिकादयः,त्रीणि-स्पर्शनरसनाघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणादयः, चत्वारि स्पर्शनरसनाघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः-दंशमशकादयः, पञ्च स्पर्शनरसनाघ्राणचक्षुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मत्स्यमकरमनुजादयः। अमीषां चैकादिसङ्ख्यानामिन्द्रियाणां स्पर्शनादीनामसंव्यवहारराशेरारभ्य प्रायोऽनेनैव क्रमेण -लाभ इति सम्प्रत्ययार्थमित्थं क्रमेणैकेन्द्रियाद्युपन्यासः। इन्द्रियाणि च द्विधा, तद्यथा-द्रव्येन्द्रियाणि भावेन्द्रियाणि संसारसमापन्न. (सू. ९) ॥ २३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy