________________
तापर्याप्तभेदसूचकः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, अत्रापि चशब्दः शर्करावालुकादिभेदसूचकः, तत्र, सूक्ष्मपृथिवीकायिकाः समुद्रकपर्याप्तप्रक्षिप्तगन्धावयववत्सकललोकव्यापिनो, बादराः प्रतिनियतदेश-19 चारिणः, तच प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते ॥ तत्र सूक्ष्मपृथिवीकायिकानां खरूपं जिज्ञासुरिदमाह
से किन्तं सुहुमपुढविकाइया ?, २ दुविहा पण्णत्ता, तंजहा–पञ्जत्तसुहुमपुढविकाइया य अपज्जत्तसुहुमपुढविकाइया य, से | तं सुहुमपुढविकाइया । (मू. १२) ___ अथ के ते सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तसूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाश्च, तत्र पर्याप्तिाम आहारादिपुदलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानां यः शक्तिविशेषः आहारादिपुद्गलखलरसरूपताऽऽपादानहेतुर्य-| थोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः, सा च पर्याप्तिः पोढा-आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिः प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिश्च, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृगमांसमेदोऽस्थिमज्जाशुक्रलक्षणससधातुरूपतया
Jan.
५
ional
For Personal & Private Use Only
Lainelibrary.org