SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ नो निरन्तरं, इयमत्र भावना-इह तावत् ग्रहणं निरन्तरमुक्तं, तथा चानन्तरसूत्रं 'अणुसमयमविरहियं निरंतर गेण्हई' इति ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमये निसर्गात् , ततो यदुक्तं 'सान्तरं निसृजति नो निरन्तर मिति, तत्र ग्रहणापेक्षया द्रष्टव्यं, तथाहि-यस्मिन् समये यानि भाषाद्रव्याणि गृह्णाति न तानि तस्मिन्नेव समये मुञ्चति, यथा प्रथमसमये गृहीतानि न तस्मिन्नेव प्रथमसमये मुश्चति किन्तु पूर्वस्मिन् पूर्वस्मिन् समये गृहीतानि उत्तरस्मिन् समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतस्य निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भाष्यकृत्-"अणुसमयमणंतरियं गहणं भणियं ततो विमोक्खोऽवि। जुत्तो निरन्तरोविय भणइ कहं संतरो भणिओ?॥१॥ गहणावेक्खाएँ तओ निरंतरं जंमि जाई गहियाई । नउ तम्मि चेक निसरइ जह पढमे निसिरणं नत्थि ॥२॥ निसिरिजइ नागहियं गहणंतरियंति संतरं तेण ।" इति, एतदेव सूत्रकृदपि स्पष्टयति-'संतरं निसरमाणो एगेणं समएणं गेण्हइ एगेणं समएणं निस्सरह'। इति, एकेन-पूर्वपूर्वरूपेण समयेन गृह्णाति एकेन-उत्तरोत्तररूपेण समयेन निसृजति, अथवा ग्रहणापेक्षं निसर्गभावात् एकेन-आद्येन समयेन गृह्णात्येव न निसृजत्यगृहीतस्य निसर्गाभावात् , तथा एकेन-पर्यवसानसमयेन निसुजत्येव न गृह्णाति, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु तु द्वितीयादिषु समयेषु युगपद ग्रहणनिसर्गों करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ उत्कर्षतोऽसङ्ख्येयान समयान्, एतदेवाह-'एतेषं गहणनिसरणो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy