________________
११भाषा
प्रज्ञापनायाः मलय. वृत्ती.
॥२६५॥
9829002020009Seeee
वाएणं जहण्णेणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिसिरणं करेइ' इति, जीवेणं जाई दवाई इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! भिन्नान्यपि निसृजति अभिन्नान्यपि, इयमत्र भावना-इह द्विविधो वक्ता-मन्दप्रयत्नस्तीव्रप्रयत्नश्च, तत्र यो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाद्रव्याणि तथाभूतान्येव स्थूलखण्डात्मकानि निसृजति, यस्तु नीरोगतादिगुणयुक्तस्तथाविधादरभावतस्तीव्रप्रयत्नः स भाषाद्रव्याणि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निसृजति, आह च भाष्यकृत्-“कोई मंदपयत्तो निसिरइ सकलाई सबदवाई। अन्नो तिवपयत्तो सो मुंचइ भिंदिउं ताई ॥१॥" तत उक्तं-भिन्नाइंपि निसिरह अभिन्नाइपि निस्सरइ, जाई भिन्नाइं निसरई' इत्यादि, यानि तीव्रप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वात् बहुत्वाच प्रभूतान्यन्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकत्वादेव चानन्तगुणवृद्ध्या परिवर्द्धमानानि षट्सु दिक्षु लोकान्तं स्पृशन्ति, लोकान्तं प्रामुवन्तीत्यर्थः, उक्तं च-"भिन्नाई सुहुमयाए अणंतगुणवद्धियाई लोगंतं । पार्वति पूरयति य भासाएँ निरंतरं लोगं ॥१॥" यानि पुनर्मन्दप्रयत्नो वक्ता यथाभूतान्येव प्राक् भाषाद्रव्याण्यासीरन् तथाभूतान्येव सकलान्यभिन्नानि भाषात्वेन परिणमय्य निसृजति तान्यसङ्ख्येया अवगाहनावर्गणा गत्वा, अवगाहनाः-एकैकस्य भाषाद्रव्यस्याधारभूता असङ्खयेयप्रदेशात्मकक्षेत्रविभागरूपास्तासामवगाहनानां वर्गणाः-समुदायास्ता असङ्ख्यया | अतिक्रम्य भेदमापद्यन्ते, विशरारुभावं बिभ्रतीत्यर्थः, विशरारुभावं बिभ्राणानि च सवयेयानि योजनानि गत्वा विध्वं
॥२६५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org