________________
११भाषा
प्रज्ञापनायाः मलय० वृत्ती.
॥२६॥
कथमेकस्मिन् समये तो स्यातां ?, तदयुक्तं, जीवस्य हि तथाखाभाव्यात् द्वावुपयोगावेकस्मिन् समये न स्यातां, ये तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात् , तथाहि-एकापि नर्तकी भ्रमणादिनृत्तं विदधाना एकस्मिन्नपि समये हस्तपादादिगता विचित्राः क्रियाः कुर्वती दृश्यते, सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययावुपजायते, एकस्मिन्नेव च समये सङ्घातपरिशाटायपि, ततो न कश्चिद्दोषः, आह च भाष्यकृत्"गहणनिसग्गपयत्ता परोप्परविरोहिणो कहं समये ? । समए दो उवओगा न होज किरियाण को दोसो ? ॥१॥" इति, तृतीये पुनः समये तानेव द्वितीयसमयोपात्तान् पुद्गलान् मुञ्चति न पुनरन्यानादत्ते, उत्कर्षेण त्वसङ्ख्येयान् यावन्निरन्तरं गृह्णाति, तथा चाह-उत्कर्षणासङ्ख्येयान् समयान् गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येयैः समयैरेकं ग्रहणं मन्येत तत आह–'अनुसमयं' प्रतिसमयं गृह्णाति, तदपि कदाचिद्विरहितमपि व्यवहारतोऽनुसमयमित्युच्येत ततस्तदाशय व्यवच्छेदार्थमाह-अविरहितं, एवं निरन्तरं गृह्णाति, तत्राद्य समये ग्रहणमेव न निसर्गः, अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु द्वितीयादिषु समयेषु ग्रहणनिसर्गों युगपत्करोति स्थापना चेयम्-न। न । प्र। प्र। प्र । । 'जीवा णं भंते ! जाई दवाइं S | भासत्ताए गहियाई निसरइ' इत्यादि प्रश्नसूत्रं सुगम, । नि । नि। नि। नि । नि। निर्वचनमाह-सान्तरं निसृजति
१ ग्रहणनिसर्गप्रयत्नौ परस्परविरोधिनी कथं समये ? । समये द्वावुपयोगौ न भवेतां क्रिययोस्तु को दोषः ? ॥ १॥
R६४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org