SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ पुच्विं गेण्हई' इत्यादि तिदिसिंति त्रिदिशि गृह्णाति तिसृभ्यो दिग्भ्य आगतानि गृह्णाति एवं चतुर्दिशि पञ्चदिशि षइदिशि च, एवमुक्ते भगवानाह-गौतम ! नियमात् षड्दिशि गृह्णाति-षड्भ्यो दिग्भ्यः आगतानि गृह्णाति, |भाषको हि नियमात् सनाड्यां अन्यत्र त्रसकायासम्भवात् , सनाड्यां च व्यवस्थितस्य नियमात् षडदिगागतपुदलसम्भवात् । एतेषामेवार्थानां सङ्ग्रहणिगाथामाह-'पुट्ठोगाढअणंत'रमित्यादि प्रथमतः स्पृष्टविषयं सूत्रं तदनन्तरमवगाढसूत्रं ततोऽनन्तरावगाढसूत्रं ततोऽणुवादरविषयं सूत्रं तदनन्तरमूधिःप्रभृतिविषयं सूत्रं तत 'आई' इति | उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं ततो नियमात् षड्दिशीतिसूत्रं, 'जीवाणं भंते ! जाइं दवाई' इत्यादि, जीवा 'ण'मिति वाक्यालङ्कारे, भदन्त ! यानि द्रव्याणि भाषकत्वेन गृह्णाति तानि किं सान्तरं-सव्यवधानं गृह्णाति किं वा निरन्तरं-निर्व्यवधानं ?, भगवानाह–सान्तरमपि गृह्णाति निरन्तरमपि, उभयथापि ग्रहणसम्भवात् , तत्र सान्तरनिरन्तरग्रहणयोः प्रत्येकं कालमानं प्रतिपादयति-'संतरं गिण्हमाणे' इत्यादि, सान्तरं गृह्णन् जघन्यतः एकं समयं अन्तरं कृत्वा गृण्हाति, एतच्च जघन्यत एकं समयमन्तरं सततं भाषाप्रवृत्तस्य भाषमाणस्थावसेयं, तवैवं-कश्चिदेकस्मिन् समये भाषापुद्गलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा पुनस्तृतीये समये गृह्णात्येव न मुञ्चति द्वितीये समये प्रथमसमयगृहीतान् पुद्गलान् मुञ्चति अन्यानादत्ते, अथान्येन प्रयत्न विशेषेण ग्रहणमन्येन च प्रयत्नविशेषेण [च निसर्गः तौ च परस्परं विरुद्धौ परस्परविरुद्धकार्यकरणात् ततः 388888SPONDO Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy