SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ अज्ञापनाया: मलयवृत्ती. ११भाषापंद ॥२६॥ संखेजाति जोअणाति गंता विद्धंसमागच्छंति ॥ (सूत्रं १६९) 'जीवे णं भंते ! जाई दवाइं भासत्ताए गिण्हइ' इत्यादि, सुगमं नवरं 'ठियाई' स्थितानि न गमनक्रियावन्ति | | द्रव्यतश्चिन्तायामनन्तप्रादेशिकानि-अनन्तपरमाण्वात्मकानि गृह्णाति, नैकपरमाण्वाद्यात्मकानि, तेषां खभावत एव जीवाना ग्रहणायोग्यत्वात् , क्षेत्रचिन्तायामसङ्ख्यातप्रदेशावगाढानि, एकप्रदेशाद्यवगाढानां तथाखभावतया ग्रहणायोग्यत्वात् , कालतश्चिन्तायामेकसमयस्थितिकान्यपि याषदसङ्ख्येयसमयस्थितिकान्यपि गृह्णाति, पुद्गलानामसङ्ख्ये| यमपि कालं यावदवस्थानसम्भवात् , तथा चोक्तं व्याख्याप्रज्ञप्तौ सैजनिरेजपुद्गलावस्थानचिन्तायां-'अणंतपएसिए |णं भंते ! खंधे केवइकालं सेए ?, गो० ! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असङ्ग्रेजतिभागं, निरेए जह नेणं एक समयं उक्कोसेणं असंखेनं काल'मिति, तेषां च गृहीतानां ग्रहणानन्तरसमये अवश्यं निसर्ग इति खभाव| स्यानन्तरसमये ग्रहणं प्रतिपत्तव्यं, अन्ये तु व्याचक्षते-एकसमयस्थितिकान्यपीति आदिभाषापरिणामापेक्षया द्रष्टव्यं, विचित्रो हि पुद्गलानां परिणामः, तत एकप्रयत्नगृहीतमुक्ता अपि ते केचिदेकं समयं भाषात्वेनावतिष्ठन्ते केचिद् द्वौ समयौ यावत् केचिदसङ्ख्येयानपि समयानिति, तथा 'गहणदत्वाई' इति गृह्यन्ते इति ग्रहणानि ग्रहणानि च तानि द्रव्याणि च ग्रहणद्रव्याणि, किमुक्तं भवति?-यानि ग्रहणयोग्यानि द्रव्याणि तानि कानिचित् वर्ण|परिणामेन एकेन वर्णेनोपेतानि कानिचित् द्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्भिः कानिचित्पञ्चभिः, यदा वटceaeeeeeeeeeeee ॥२६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy