________________
SEEReeeeeeeeeem
पुनरेकप्रयत्नगृहीतानामपि सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृह्णन्ति(हति), एवं गन्ध-12|| रसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोरवश्यं स्पर्शद्वयभावात् , तथा चोक्तम-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" द्विस्पर्शानि-मृदुशीतानि मृदृष्णानीत्यादि, 'जाव चउफासा' इति यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः, तत्र त्रिस्पर्शान्येवं-कानिचित् द्रव्याणि किल मृदुशीतस्पर्शानि कानिचित् मृदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शो मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपौ तु द्वावन्यौ स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि, कानिचिचतु:स्पर्शानि तत्र चतुःस्पर्शेषु मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ सूक्ष्मस्कन्धेषु तयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शी स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीती, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति, तत्र यो द्वौ मृदुलघुरूपौ स्पर्शाववस्थितौ तायवस्थितत्वादेव व्यभिचाराभावान्न गण्यते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह, तद्यथा-'सीयफासाइं गेण्हई' इत्यादि सुगम, यावत् 'जाई भंते ! अणंतगुणलुक्खाइं गेण्हई' इह किल चरमं सूत्रमनन्तरमिदमुक्तं 'अणंतगुणलुक्खाइपि गिण्हई ततः सूत्रसम्बन्धवशादिदमुक्तं, जाइं भंते ! जाव अणंतगुणलुक्खाइं गेण्हई', इति 'यावता जाइं भंते! एगगुणकालवण्णाई' इत्याद्यपि द्रष्टव्यं, 'ताई भंते ! किं पुट्ठाई' इत्यादि, तानि भदन्त ! किं स्पृष्टानि-आत्मप्रदेशसंस्पृष्टानि गृह्णाति, उतास्पृष्टानि ?, भगवानाह-गौतम ! स्पृष्टानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org