________________
११भाषा
प्रज्ञापनायाः मलय० वृत्ती.
॥२५७॥
OSSESSO9999
रूपतयाऽबधारयितुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतेन रूपे- णावधारयितुमशक्यत्वात् । 'पजत्तिया णं भंते!' इत्यादि भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह-'सच्चा णं भंते ! भासा पजत्तिया कइविहा पण्णत्ता' इति पाठसिद्धं, भगवानाह-'गोयमा !' इत्यादि 'जणवयसच्चा' इति तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकतया व्यवहारहेतुत्वात् सत्या जनपदसत्या यथा कोङ्कणादिषु पयः पिञ्चमित्यादि १, सम्मतसत्या या सकललोकसाम्मत्येन सत्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसंभवत्वे गोपालजना अरविन्दमेव पङ्कजं मन्यन्ते न शेषमित्यरविन्दे पङ्कजमिति सम्मतसत्या २ स्थापनासत्या या तथाविधमकादिविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककं पुरतो बिन्दुद्वयसहितमुपलभ्य शतमिदमिति, बिन्दुत्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिषु माषोऽयं कार्षापणोऽयमिति, तथा नामतः सत्या नामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इति, तथा रूपतः सत्या रूपसत्या, यथा दम्भतो गृहीतप्रत्रजितरूपः प्रव्रजितोऽयमिति, तथा प्रतीस-आश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या यथा अना| |मिकाया कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य इखत्वं, न च वाच्यं कथमेकस्यां खत्वं दीर्घत्वं च तात्त्विकं , परस्परविरोधादिति, भिन्ननिमित्तत्वेन परस्परविरोधासम्भवात , तथाहि-तामेव यदि कनिष्ठां मध्यमां वा एकामङ्गुलिमङ्गीकृत्य इखत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः सम्भवेत् , एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात् ,
॥२५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org