________________
ति- उत्पद्यते काययोगाद्वाग्योगाद्वा ?, तथा कतिभिः समयैर्भाषा भाषते ?, किमुक्तं भवति ? – कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकारा- कतिप्रभेदा ? कति वा भाषाः साधूनां वक्तुमनुमता - अनुज्ञाता ? । अत्र निर्वचनं - 'सरीरप्पभवा' इत्यादि, अत्र शरीरग्रहणेन शरीरयोगः परिगृह्यते, शरीरमात्रप्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः १ - काययोगप्रभवा, तथाहि — काययोगेन भाषायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति, ततः काययोगबलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तं, आह च भगवान् भद्रबाहुखामी - “गिण्हइ य काइएणं निसरइ तह वाइएण जोगेण' मिति, 'कइहि व समएहिं भासई भास' मित्यस्य निर्वचनं द्वाभ्यां समयाभ्यां भाषते भाषां, तथाहि — एकेन समयेन भाषायोग्यान् पुद्गलान् गृह्णाति द्वितीये समये भाषात्वेन परिणमय्य विसृजतीति, 'भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा | सत्यादिभेदाच्चतुःप्रकारा ते च सत्यादयो भेदाः प्रागेव भाविता इति, 'कइ वा भासा अणुमया य' इत्यस्य निर्वचनं सत्यादी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा-सत्या असत्यामृषा च, अर्थात् ये मृषासत्यामृषे ते नानुज्ञाते, तयोरयथावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्थित्वात्, पुनः प्रश्नयति- 'कइविहा णमित्यादि, 'पजत्तिया अपज्ज - त्तिया' इति पर्याप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, सा च सत्या मृषा वा द्रष्टव्या, | उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात्, या तु मिश्रतया उभयप्रतिषेधात्मकतया वा न प्रतिनिंयत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org