________________
प्रज्ञापनाया: मल
य.वृत्ती.
॥२५६॥
नकारणव्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो ११भाषायस्याः सा किंप्रभवा, सत्यपि मौले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः, तथा किंसंस्थितेतिकेनाकारेण संस्थिता किंसंस्थिता, कस्येव संस्थानमस्या इति भावः, तथा किंपर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठां गता किंपर्यवसिता?, भगवानाह-गौतम ! 'जीवादिका' जीव आदिः-मौलं कारणं यस्याः सा जीवादिका जीवगततथाविधप्रयत्नमन्तरेणावबोधबीजभूतभाषाया असम्भवात् , आह च भगवान् भद्रबाहुखामी|"तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासइ भासओ भासं ॥१॥" "किंप|भवा' इत्यस्य निर्वचनमाह-शरीरप्रभवा' औदारिकवैक्रियाहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतेः, तथा किंसंस्थिता इत्यस्य निर्वचनं 'वज्रसंस्थिता' वज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्रयत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति, लोकश्च वज्राकारसंस्थित इति सापि वज्रसंस्थिता, 'किंपर्यवसिते'त्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात् , प्रज्ञसा मया शेषैश्च तीर्थकृद्भिः ॥ पुनरपि प्रश्नमाह-'भासा कतो य पभवा' इत्यादि, भाषा कुतो-योगात् प्रभव-18|॥२५॥
१ त्रिविधे शरीरे ( औदारिकवैक्रियाहारकेषु ) जीवप्रदेशाः भवन्ति जीवस्य ( संबद्धा इति ज्ञापनाय ) यैस्तु गृहाति ग्रहणं (भाषाद्रव्यं ) ततो भाषते भाषकः (ग्राहक एव ) भाषां (भाषणसमय एव भाषात्वज्ञापनाय )॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org