________________
यदा त्वेकामधिकृत्य इखत्वमपरामधिकृत्य दीर्घत्वं तदा सत्त्वासत्त्वयोरिव भिन्ननिमित्तत्वान्न परस्परं विरोधः, अथ यदि तात्त्विके इखत्वदीर्घत्वे तत ऋजुत्यवक्रत्वे इव कस्मात्ते परनिरपेक्षे न प्रतिभासेते ?, तस्मात् परोपाधिकत्वात् काल्पनिके इमे इति, तदयुक्तं, द्विविधा हि वस्तुनो धर्माः-सहकारिव्यजयरूपा इतरे च, तत्र ये सहकारिव्यनयरूपास्ते सहकारिसम्पर्कवशात् प्रतीतिपथमायान्ति, यथा पृथिव्यां जलसम्पर्कतो गन्धः, इतरे वेवमेवापि यथा कर्परादिगन्धः, इखत्वदीर्घत्वे अपि च सहकारिव्यङ्ग्यरूपे, ततस्ते तं सहकारिणमासाद्याभिव्यक्तिमायात इत्यदोषः, तथा व्यवहारो-लोकविवक्षा, व्यवहारतः सत्या व्यवहारसत्या, यथा गिरिर्दयते गलति भाजनं अनुदरा कन्या अलोमिका एडका, लोका हि गिरिगततृणदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दयते इति त्रुवन्ति, भाजनादुदके श्रवति उदकभाजनयोरमेदं विवक्षित्वा गलति भाजनमिति, संभोगवीजप्रभवोदराभावे अनुदरा इति, लवनयोग्यलोमाभावे अलोमिकेति, ततो लोकव्यवहारमपेक्ष्य साधोरपि तथाब्रुवतो भाषा व्यवहारसत्या भवति, तथा भावो वर्णादिर्भावतः सत्या भावसत्या, किमुक्तं भवति ?-यो भावो वर्णादिवस्मिन्नुत्कटो भवति तेन या सत्या भाषा (सा)भावसत्या, यथा सत्यपि पञ्चवर्णसम्भवे बलाका शुक्लेति, तथा योगः-सम्बन्धः तस्मात् सत्या योगसखा, तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री एवं दण्डयोगात् दण्डी, औपम्यसत्या यथा समुद्रवत्तडागः, अत्रैवार्य विनयजनानुग्रहाय सङ्ग्रहणिगाथामाह-'जणवयसम्मवठवणा' इत्यादि भावितार्था ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org