SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ कलिलमात्राभिधायी शब्दस्तदभिधायी भवति, न खलु नरसिंहे सिंहशब्दो नरशब्दो वा केवलस्तदभिधायी भवति. अथ च दृश्यते तदभिधायितयाऽपि लोके व्यवहारस्ततः पृच्छति 'सवा सा इत्थिवऊ' इति, सर्वा सा एवंप्रकारा स्त्रीवाक्-स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक् भवति ?, काक्का पाठात् प्रश्नार्थत्वावगतिः, भगवानाह-'हंता ! गोयमे'त्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं यद्यपि नाम शबलरूपं वस्तु तथाऽप्येष शाब्दो न्यायः-येन धर्मेण विशिष्टः प्रतिपादयितुमिष्यते स तं प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वे शास्त्रज्ञत्वे दातृत्वे भोक्तृत्वे जनकत्वेऽध्यापयितृत्वे च युगपद् व्यवस्थितेऽपि पुत्रः समागच्छन्तमवलोक्य पिता आगच्छतीति ब्रूते, शिष्यस्तु उपाध्याय इति, एवमिहापि यद्यपि मानुषीप्रभृतिकं सर्व त्रिलिङ्गात्मकं तथापि योनिर्मृदुत्वमस्थैर्यादिलक्षणं स्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततः प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धमिणं प्रतिपादयतीति भवति सर्वा सा स्त्रीवाक्, एवं पुंवागनपुंसकवाचावपि भावनीये । 'अह भंते ! पुढवी' इत्यादि सुगम, नवरं 'आऊ' इति पुंल्लिङ्गता प्राकृतलक्षणवशात्, संस्कृते तु स्त्रीत्वमेव, 'अह भंते ! पुढवीति इत्थीआणवणी' इत्यादि, अथ भदन्त ! पृथिवीं कुरु पृथ्वीमानयेत्येवं स्त्रियां-स्त्रीलिङ्गे पृथिव्या आज्ञापनी एवमाऊ इति पुमाज्ञापनी धान्यमिति नपुंसकाज्ञापनी प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति ?, भगवानाह-'हंता गो०!' इत्यादि सुगम, 'अह भंते' इत्यादि, अथ भदन्त ! पृथिवी इति स्त्रीप्रज्ञापनी-स्त्रीत्वखरूपस्य प्ररूपणी एवं आऊ इति पुंप्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy