________________
प्रज्ञापनाया: मलयवृत्तौ.
॥२५॥
इहापि मनुष्य इत्यादावुपसर्जनीकृतधा धर्मी प्राधान्येन विवक्षित इति भवति सर्वाप्येवंजातीया एकत्वप्रतिपा-IN ११भाषादिका वाक् । 'अह भंते ! मणुस्सा' इत्यादि, अक्षरगमनिका प्राग्वत्, अत्रापीदं संशयकारणं-मनुष्यादयः शब्दा पदं जातिवाचकाः, जातिश्च सामान्यं सामान्यं चैकं 'एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्य मितिवचनात् , ततः कथमत्र बहुवचनं १, अथ च दृश्यते बहुवचनेनापि व्यवहार इति पृच्छति-सर्वा सा बहुत्वप्रतिपादिका वाक् भवति ?, काक्का पाठात् प्रश्नार्थत्वावगतिः, अत्र भगवानाह-'हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नामैते जातिवाचकाः शब्दाः तथापि जातिरभिधीयते समानपरिणामः, समानपरिणामश्चासमानपरिणामाविनाभावी, अन्यथैकत्वापत्तितः समानत्वायोगात्, ततो यदा समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्ष्यते तदाऽसमानपरिणामस्य प्रतिव्यक्ति भिन्नत्वात् तदभिधाने बहुवचनं, यथा घटा इति, यदा तु स एव एकः समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमानपरिणाम उपसर्जनीभूतस्तदा सर्वत्रापि समानपरिणामस्य एकत्वात् तदभिधाने एकवचनं, यद्वा सर्वोऽपि घटः पृथुवृनोदराद्याकार इति, अत्रापि मनुष्या इत्यादौ समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्षित इति, तस्यानेकत्वभावात् बहुवचनं । 'अह भंते !
॥२५४॥ मणुस्सी'त्यादि, अत्रेदं संशयकारणं-इह सर्व वस्तु त्रिलिङ्गं, तथाहि-मृद्रूपोऽयमिति पुंलिङ्गता मृत्परिणतिरियं घटाकारा परिणतिरियमिति स्त्रीलिङ्गता, इदं वस्त्विति नपुंसकलिङ्गता, तत्रैवं शबलरूपे वस्तुनि व्यवस्थिते कथमे
...
बहुवचनं । 'अह भंते !
त्रिलिङ्ग, तथाहि-मन
परिणतिरियमिति स्त्रीलित
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org