SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ अच्छभल्लः तरक्षो-व्याघ्रजातिविशेषः परस्सरो-गण्डः शृगालो-गोमायुः बिडालो-मार्जारः शुनको-मृगदंशः कोलशुनको-मृगयाकुशलः श्वा शशकः-प्रतीतः कोकंतिया-लुङ्कडी चित्रकः-प्रतीतः चिल्ललकःआरण्यः पशुविशेषः, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा एकवचनान्ता इत्यर्थः, सर्वासा एकवाक्-एकत्वप्रतिपादिका वाणी, अयमत्र प्रश्नहेतुरभिप्रायः-इह वस्तु धर्माधमिसमुदायात्मकं धमाश्च प्रतिवस्त्वनन्ताः मनुष्य इत्याधुक्तौ च सकलं वस्तु धर्मधर्मिसमुदायात्मकं परिपूर्ण प्रतीयते, तथा व्यवहारदर्शनात् , एकस्मिंश्चार्थे एकवचनं बहुषु बहुवचनं, अत्र बहवो धर्मा अभिधेयाः ततः कथमेकवचनं ?, अथ च दृश्यते लोके एकवचनेनापि व्यवहार इति पृच्छति-सर्वा सा एकत्वप्रतिपादिका वाग् भवति ?, काका चेदं पठ्यते ततः प्रश्नार्थत्वावगतिः, भगवानाह-हंता गोयमा ! इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-शब्दप्रवृत्तिरिह विवक्षाधीना, विवक्षा च तत्तत्प्रयोजनवशात् वक्तुः क्वचित् कदाचित् कथञ्चित् भवतीत्यनियता, तथाहि-स एवैकः पुरुषो यदाऽयं मे जनक इति पुत्रेण विवक्ष्यते तदा जनक इत्यभिधीयते, स एव यदा तेनैव मामध्यापयतीति विवक्ष्यते तदा तूपाध्याय इति, तत्र यदा उपसर्जनीभूतधर्मा धर्मी प्राधान्येन विवक्ष्यते तदा धम्मिण एकत्वात् एकवचन, धर्माश्च धर्मिमण्यन्तर्गता इति परिपूर्णवस्तुप्रतीतियथा त्वमिति, यदा तूपसर्जनीभूतधर्मिणो धर्माः पाण्डित्यपरोपकारित्वमहादानदातृत्वादयः प्राधान्येन विवक्ष्यन्ते तदा धर्माणां बहुत्वादेकस्मिन्नपि बहुवचनं यथा यूवमिति, तत। TAG29202929202920200202929 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy