________________
बलवती, पुरुषोऽपि च कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायामपि चापदि क्लीबतां भजते, नपुंसकोऽपि कश्चिन्मन्दमोहानलो दृढसत्त्वश्च, ततः संशयः-किमेषा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह-'हंता! गोयमा!' इत्यादि, अक्षरार्थः सुगमः, परं भावार्थस्त्वयं-इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्तव्यक्त्याक्षेपेणात एव जातिगुणान् प्ररूपयन्तो विमलधियः प्रायः शब्दं समुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं, यत्रापि न प्रायःशब्द-९ श्रवणं तत्रापि स द्रष्टव्यः प्रस्तावात् , ततः क्वचित्कदाचिद् व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति॥ इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानाति-अहमेतद्भाषे इति, यस्तु करणापटिष्टतया वातादिनो-1
पहतचैतन्यकतया वा पूर्वापरानुसन्धानविकलो यथाकथंचित् मनसा विकल्प्य विकल्प्य भाषते स इतरः, स. 18 चैवमपि न जानाति-यथा अहमेतत् भाषे इति, बालादयोऽपि च भाषमाणा दृश्यन्ते, ततः संशयः-किमेते
जानन्ति यद्वयमेतत् भाषामहे इति किं वा न जानन्तीति पृच्छति। अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति बुयमाणा अहमेसे बुयामीति ?, गो० ! नो इणढे समढे, णण्णत्थ
सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमित्ति , गो० ! नो इणढे समढे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अम्मापियरी ?, गो० !
30-008092e2e
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org