________________
प्रज्ञापना- याः मलय० वृत्ती.
॥२५॥
स्त्रिया आज्ञापनी, यथा अमुका ब्राह्मणी क्षत्रिया वा एवं कुर्यादिति, एवं जातिमधिकृत्य पुमाज्ञापनी नपुंसकाज्ञा
११भाषापनी, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, अत्रापि संशयकारणमिदं-आज्ञापनी हि नाम आज्ञासम्पादन- पदं क्रियायुक्तख्याद्यभिधायिनी, ख्यादिश्चाज्ञाप्यमानस्तथा कुर्यान्न वेति संशयः, किमियं प्रज्ञापनी किं वाऽन्येति ?, अत्र निर्वचनमाह–'हंता ! गोयमा' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-आज्ञापनी हि नाम परलोकाबाधिनी सा प्रोच्यते या खपरानुग्रहबुद्ध्या विवक्षितार्थसम्पादनसामोपेतविनीतस्यादिविनेयजनविषया, यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमद्येत्यमुकमङ्गं श्रुतस्कन्धं च पठेत्यादि सा प्रज्ञापन्येव, दोषाभावात् , शेषा तु खपरपीडाजननान्मृषेत्यप्रज्ञापनीति । 'अह भंते !' इत्यादि, अथ भदन्त ! या जातिस्त्रीप्रज्ञापनी जातिमधिकृत्य स्त्रियास्त्रीलक्षणस्य प्रतिपादिका, यथा स्त्रीः खभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्बला च धृत्येति, उक्तं च"तुच्छा गारवबहुला चलिंदिया दुब्बला य धीईए' इत्यादि, या च जातिमधिकृत्य पुम्प्रज्ञापनी-पुरुषलक्षणस्य खरूं-13 पनिरूपिका, यथा पुरुषः खभावात् गम्भीराशयोभवति महत्यामपि चापदि न क्लीवतां भजते इत्यादि, या च जातिमधिकृत्य नपुंसकप्रज्ञापनी नाम-नपुंसकजातिप्ररूपिका, यथा नपुंसकः खभावात् क्लीबो भवति, प्रबलमोहानलज्वा-1 ॥२५१॥ लाकलापज्वलितश्चेत्यादि प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति, अत्रापीदं संशयकारणं वर्ण्यते-खलु जातिगुणाः एवंरूपाः परं क्वचित्कदाचिद् व्यभिचारोऽपि दृश्यते, तथाहि-रामाऽपि काचित् गम्भीराशया भवति धृत्या चातीच
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org