SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ वहाराश्रितं प्रतिपादयितुमिष्यते तदैवं न वक्तव्यमव्यापकत्वात् , यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्तरतस्तु खोपज्ञशब्दानुशासनविवरणे, तत इयं तदधिकृत्य प्रज्ञापनी, यदा तु वेदानुगतं प्रतिपादयितुमिष्यते । तदा यथावस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृषेति । 'अह भंते ! जा जातीति इत्थिवऊ' इत्यादि, अथ भदन्त ! या जातिः स्त्रीवाक् जातौ स्त्रीवचनं सत्तेति, या जातौ पुंवाक पुवचनं भाव इति, या च जातौ नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, कोऽत्राभिप्राय इति चेत्, उच्यते, जातिरिह सामान्यमुच्यते, सामान्यस्य च न लिङ्गसङ्ख्याभ्यां योगो, वस्तूनामेव लिङ्गसङ्ख्याभ्यां योगस्य तीर्थान्तरीयैरभ्युपगमात् , ततो यदि परं जातावौत्सर्गिकमेकवचनं नपुंसकलिङ्गं चोपपद्यत न त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायिनोऽपि शब्दाः प्रवर्तन्ते यथोक्तमनन्तरं ततः संशयः-किं एषा भाषा प्रज्ञापनी उत नेति ?, अथ भगवानाह-हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-जाति म सामान्यमुच्यते, सामान्यं च न परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात् , यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधाये, किन्तु समानः परिणामो 'वस्तुन एव समानः परिणामो यः स एव सामान्य मिति वचनात्, समानपरिणामश्चानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपि च सहान्योऽन्यानुवेधाभ्युपगमात् तथा प्रमाणेनोपलब्धेः, ततो घटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा मृषेति । 'अह भंते !' इत्यादि, अथ भदन्त ! या जातिख्याज्ञापनी-जातिमधिकृत्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy