________________
ब
प्रज्ञापनाया: मलय० वृत्ती.
११भाषापदं
॥२५॥
बाधिनी इतरा च, तत्र या खपरानुग्रहबुद्ध्या शाट्यमन्तरेण आमुष्मिकफलसाधनाय प्रतिपन्नैहिकालम्बनप्रयोजना विवक्षितकार्यप्रसाधनसामर्थ्ययुक्ता विनीतख्यादिविनेयजनविषया सा परलोकाबाधिनी एषैव च साधूना प्रज्ञापनी परलोकावाधनात्, इतरा वितरविषया, सा च खपरसङ्क्लेशजननात् मृषेत्यप्रज्ञापनी साधुवर्गस्य, उक्तं च-"अविणीयमाणवतो किलिस्सई भासई मुसं तह य। घंटालोहं नाउं को कडकरणे पवत्तेजा ? ॥१॥" क्रिया हि द्रव्यं विनमयति नाद्रव्यमित्यभिप्रायः। अह भंते ! जा य इत्थिपण्णवणी' इत्यादि अथ भदन्त ! या च भाषा स्त्रीप्रज्ञापनी-स्त्रीलक्षणप्रतिपादिका, 'योनिर्मुदुत्वमस्थैर्य मुग्धते'त्यादिरूपा, या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादिका 'मेहनं खरता दाढ्य' इत्यादिरूपा या च [ग्रं०६०..] नपुंसकप्रज्ञापनी-नपुंसकलक्षणाभिधायिनी 'स्तनादिश्मश्रुकेशादिभावाभावसमन्वितमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, कोऽत्राभिप्राय इति चेत् , उच्यते, इह स्त्रीलिङ्गादयः शब्दाः शाब्दव्यवहारवलादन्यत्रापि प्रवर्त्तन्ते, यथा खट्टाघटकुट्यादयः खट्वादिष्वर्थेपु, न खलु तत्र यथोक्तानि ख्यादिलक्षणानि सन्ति यथोक्तं प्राक्, ततः किमियमव्यापकत्वात् स्यादिलक्षणप्रतिपादिका भाषा न वक्तव्या आहोश्चित् वक्तव्येति संशयापन्नः पृष्टवान्, अत्र भगवानाह-हंता गोयमेत्यादि, अक्षरगमनिका सुप्रतीता, भावार्थस्त्वयं-इह ख्यादिलक्षणं द्विधा-शाब्दव्यवहारानुगतं वेदानुगतं च, तत्र यदा शाब्दव्य
१ अविनीतमाज्ञापयन् विश्यति भाषते मृषा तथा च । घण्टालोहं च ज्ञात्वा कः कटकरणे प्रवर्तेत ? ॥ १ ॥
॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org