SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ न चैवंरूपाणि ख्यादिलक्षणानि खट्वादिषूपलभ्यन्ते, तथाहि-यद्येकैकावयवपृथक्करणेन सम्यग् निभालनं क्रियते । तथापि न तेषां स्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषा न वेति जातसंशयः तदपनोदाय पृच्छति, अत्र भगवानाह-हंता गोयमे'त्यादि अक्षरगमनिका प्राग्वत् , भावार्थस्त्वयं-नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि रूयादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्त्वभिधेयधर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, न चैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाभिधेयतया परिणमनभावात् , तेषामभिधेयधमर्माणां तत्त्वतस्तात्त्विकत्वात् , आह च शकटसूनुरपि-"अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः स्त्रीपुंनपुंसकत्वानी"ति, व्यवस्थापितश्चायमर्थो विस्तरकेण खोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दव्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातः समुत्पत्तेरभावात् परपीडाहेतुत्वाभावाच न मृषेति । 'अह भंते !' इत्यादि, अथ भदन्त ! या च ख्याज्ञापनी आज्ञाप्यते-आज्ञासम्पादने प्रयुज्यतेऽनया सा आज्ञापनी स्त्रिया आज्ञापनी ख्याज्ञापनी, स्त्रिया आदेशदायिनीत्यर्थः, या च पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च ख्यादिः तथा कुर्यान्न वा?, ततः संशयमापन्नो विनिश्चयाय पृच्छति, अत्र भगवानाह-हंता गोयमा ! इत्यादि, अक्षरगमनिका सुगमा, भावार्थस्त्वयं-आज्ञापनी भाषा द्विधा-परलोका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy