________________
टिस
प्रज्ञापनायाःमलयवृत्ती.
॥२४९॥
वस्थितार्थप्रतिपादकतया सत्यत्वात् , तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रिलिङ्गार्थसमवायिनी, ततो जात्यभिधानेन त्रिलिङ्गा अपि यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं प्रज्ञापनी
११भाषा
पदं भाषेति, यदप्युक्तम्-किन्तु पुंल्लिङ्गगर्भा इति, तत्र शब्दे लिङ्गव्यवस्था लक्षणवशात् , लक्षणं च 'स्त्रीपुंनपुंसकसहोक्ती परं' तथा 'ग्राम्याशिशुद्विखुरसङ्घ स्त्री प्राय' इत्यादि, ततो भवेत् क्वचित् शब्दे लक्षणवशात् स्त्रीत्वं क्वचित् पुंस्त्वं क्वचित् ! नपुंसकत्वं वा, परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकालप्रस्तावादिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडाजनिका नापि विप्रतारणादिदुष्टविवक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'अह भंते ! जा य इत्थिवऊ' इत्यादि, अथेति प्रश्ने भदन्त ! इत्यामन्त्रणे, या च स्त्रीवाक्-स्त्रीलिङ्गप्रतिपादिका भाषा खवा लतेत्यादिलक्षणा या पुरुषवाक् घटः पट इत्यादिरूपा या च नपुंसकवाकू कुड्यं काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, किमत्र संशयकारणं येनेत्थं पृच्छति ? इति चेत् , उच्यते, इह खट्टाघटकुड्यादयः शब्दाः यथाक्रमं स्त्रीपुनपुंसकलिङ्गाभिधायिनः, स्त्रीपुंनपुंसकानां च लक्षणमिदम्-“योनिर्मुदुत्वमस्थैर्य, मुग्धता क्लीयता । स्तनी। पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥॥मेहनं खरता दाढ्य, शौण्डीय श्मश्रुधृष्टता स्त्रीकामितेति लिङ्गा
॥२४९॥ |नि, सप्त पुंस्त्वे प्रचक्षते ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम्॥३॥" तथाऽन्यत्राप्युक्तम्-"स्तनकेशवती स्त्री स्यालोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तत्र भावे नपुंसकम् ॥१॥"
dan Education International
For Personal & Private Use Only
www.jainelibrary.org.