SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ यदुत अवधारणीयं भाषेति, एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति'अह मण्णामी इइ ओहारिणी भासा' इति, "अथ-प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने, काका चास्य सूत्रस्य पाठस्ततोऽयमर्थः-अथ-भगवन्नेवमहं मन्ये एवमहं मननं कुर्या, यथा-अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह-'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि?–एवमहं चिन्तनं कुयो, यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्व मननं चिन्तनं वा कृतवानिदानीमपि पृच्छासमये तथैव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन संवादयितुकामः पृच्छति-'तह मन्नामी इति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति, 'तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्नेषु' इह निर्देशे, काका चास्यापि पाठः, ततः प्रश्नार्थत्वावगतिः, भगवन् ! यथा पूर्व मतवानिदानीमप्यहं तथा मन्ये इति–एवं यदुत अवधारिणी भाषेति, किमुक्तं भवति ?-दानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवन्निति, तथा यथा पूर्व भगवन् ! चिन्तितवान इदानीमप्य तथा चिन्तयामि इति एवं यदुत अवधारणी भाषेति, अस्त्येतदिति ?, एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते भगवानाह-'हंता गोयमा ! मन्नामी इति ओहारिणी भासा' इति, 'हन्तेति सम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच युष्मदर्थेऽपि प्रयुज्यन्ते, ततोऽ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy