SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- यमर्थः-हन्त गौतम! मन्यसे त्वं यदुत अवधारणी भाषेति जानाम्यहं केवलज्ञानेनेदमित्यभिप्रायः, तथा चिन्तयसिहा ११भाषायाः मला त्वमित्येवं यदुतावधारणी भाषेति इदमप्यहं वेमि केवलित्वात् , 'अह मन्नामी इति ओहारिणी भासा' इति अथेत्याय० वृत्ती. नन्तर्ये, मत्सम्मतत्वात् , ऊर्द्ध निःशकं मन्यख, इति-एवं यदुतावधारिणी भाषेति, अथ इत ऊद्ध निःशकं चिन्तयः | ॥२४७|| इति-एवं यदुतावधारणी भाषेति, अतीवेदं साध्वनवद्यमित्यभिप्रायः, तथा तथा-अविकलं परिपूर्ण मन्यख इतिएवं यदुतावधारणी भाषेति यथा पूर्व मतवान् , किमुक्तं भवति ?-यथा त्वया पूर्व मननं कृतमिदानीमपि मत्सम्मतत्वात् सर्व तथैव मन्यख मा मनागपि शङ्का कार्पोरिति, तथा तथा अविकलं परिपूर्ण चिन्तय इति–एपं यदुत। अवधारिणी भाषेति, यथा पूर्व चिन्तितवान् , मा मनागपि शविष्ठा इति, तदेवं भाषा अवधारणीति निर्णीतमि-18 दानीमियमवधारिणी भाषा सत्या उत मृषेत्यादिनिर्णयार्थ पृच्छति-'ओहारिणी णं भंते !' इत्यादि, अवधारिणीअवबोधबीजभूता, णमिति प्राग्वत्, भदन्त ! भाषा किं सत्या मृषा सत्यामृषा असत्यामृपा ? इति, तत्र सन्तोमुनयस्तेषामेव भगवदाज्ञासम्यगाराधकतया परमशिष्टत्वात् सयो हिता-इहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, युगादिपाठाभ्युपगमात् यः प्रत्ययः, यद्वा यो यस्मै हितः स तत्र साधुरिति सत्सु साध्वी सत्या, 'तत्र साधा- २४७॥ विति यः प्रत्ययः, यदिवा सन्तो-मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रापकतया परमशोभनत्वात् अथवा सन्तो-विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्थाः अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽस Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy