________________
raoraeo
स्थापि सम्भवात एकादीनामपि चोद्वर्तनाया भावात् 'चरमावि अचरमावी'त्युभयत्राप्यवश्यंभाविना बहुवचनेन | निर्वचनं नोपपद्यते. किन्तु ये पृच्छासमये वर्तन्ते ते क्रमेण स्वखस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतचिन्तनेन उपपद्यते यथोक्तं निर्वचनमिति, भवचरमसूत्रं गतिचरमसूत्रवत्, 'नेरइए णं भंते ! भासाचरमेण मित्यादि, भाषाचरमं चरमभाषा, ततोऽयमर्थः-नैरयिको भदन्त ! चरमया भाषया किं चरमोऽचरमो वा?, शेषं सुगम, बहुवचनसूत्रे प्रश्नभावार्थो-ये पृच्छासमये नारका ते खकालक्रमेण चरमां भाषां प्राप्ताः सन्तः तया चरमया भाषया चरमा अचरमा वा इति, ततो निर्वचनसूत्रमप्युपपन्नं, एवमुच्छ्रासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेषं सुगमं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां दशर्म चरमाख्यं पदं समाप्तम् ॥१०॥
9999292029001
एकादशं भाषापदम् ।
= तदेवं व्याख्यातं दशमं पदं, इदानीमेकादशमारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागः प्रतिपादितः, इह [सत्या १मृषा २ सत्यामृषा ३असत्यामृषा४] भाषापर्याप्तानां सत्यादिभाषाविभागोपदर्शनं क्रियते, तत्र चेदमादिसूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org