________________
प्रज्ञापनायाः मलयवृत्ती.
१०चरमाचरमपदं
॥२४५॥
'जीवे णं भंते! गइचरमेणं किं चरमे?' इत्यादि, गतिपर्यायरूपं चरमं गतिचरमं तेन जीवो भदन्त ! चिन्त्यमानः किं चरमः अचरमः ?, भगवानाह-हे गौतम! स्यात् चरमः स्यादचरमः, कश्चिचरमः कश्चिदचरम इत्यर्थः, तत्र यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये वर्तमानोऽनन्तरं न किमपि गतिपर्यायमवाप्स्यति, किन्तु मुक्त एव भविता स गतिचरमः, शेषस्त्वगतिचरम इति, 'नेरइए णं भंते! गइचरमे' इत्यादि, नैरयिको भदन्त ! गतिचरमेण सामर्थ्यान्नरकगतिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमः अचरमो वा ?, भगवानाह-गौतम ! स्याचरमः स्थादचरमो, नरकगतिपर्यायादुद्धतो न भूयोऽपि नरकगतिपर्यायमनुभविष्यति स चरमः शेषस्त्वचरमः, एवं चतुविशतिदण्डकक्रमेण निरन्तरं तावद् वक्तव्यं यावद् वैमानिको-वैमानिकसूत्रं, बहुवचनदण्डकसूत्रे निर्वचनं 'चरमावि अचरमावि' इति, पृच्छासमये ये केचन नैरयिकास्तेषां मध्येऽवश्यं केचन नैरयिकगतिपर्यायेण चरमा इतरे त्वचरमास्तत एकमेवेदमत्र निर्वचनं-चरमा अपि अचरमा अपि, एवं सर्वस्थानेष्वपि तां तांगतिमधिकृत्य भावनीयं । 'नेरइए णं भंते ! ठिइचरमेणं' इत्यादि, नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽचरमो वा ?, भगवानाह-स्याचरमः स्यादचरमः, किमुक्तं भवति ?-यो भूयोऽपि नरकमागत्य स्थितिच- रमसमयं प्राप्स्यति सोऽचरमः शेषस्तु चरमः, एवं निरन्तरं यावद् वैमानिकः, बहुत्वदण्डकचिन्तायां 'चरमावि अचरमावि' इति, इह ये पृच्छासमये स्थितिचरमसमये वर्तन्ते, ते चिन्त्यन्ते इत्येतन्न, अन्यथा उद्वर्तनाया विरह
0900202000908
२४५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org