________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥२३८॥
व्यश्च अष्टादशोऽचरमाणि चावक्तव्यानि चेत्येते सप्त भङ्गा ओघत एव न संभवन्ति, तथाप्रकाराणा द्रव्याणामेवासंभवात्, न ह्येवं जगति केवलानि चरमादीनि द्रव्याणि संभवन्ति, असंभवश्च प्रागुक्तभावनानुसारेण सुगमत्वात्स्वयं भावनीयः, सप्तमश्च चरमश्चाचरमश्चेत्येवंरूप एव यदा स षट्प्रदेशात्मकः स्कन्धः पञ्चखाकाशप्रदेशेष्येक परिक्षेपेण व्यवस्थि| तेष्वेवमवगाहते, स्थापन, द्वौ परमाणू मध्यप्रदेशे एकैकः शेषेषु, तदा तेषां चतुर्णां परमाणूनामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्वव्यपदेशः एकत्वव्यपदेशत्वाच्चरम इति व्यपदेशः, यौ तु द्वौ परमाणू मध्ये तावेकत्वपरिणामपरिणतावित्यचरमः, अष्टमश्चरमश्चाचरमौ च तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः षट्सु प्रदेशेषु एकपरिक्षेपेणैकाधिकमेवमवगाहते, स्थापना, तदा पर्यन्तवर्तिनः परिक्षेपेणावस्थिताश्चत्वारः परमाणयः प्रागुक्तयुक्तेरेकश्चरमः, द्वौ मध्यवर्तिनावचरमाविति, अन्ये त्वभिदधति – चतुर्णी परमाणूनां क्षेत्र प्रदेशान्तरव्यवहिताधिकत्वपरिणामो न भवति तदभावाच्च नैष भङ्ग उपपद्यते, प्रतिषिद्धश्च सूत्रे, यतो वक्ष्यति - "विचउत्थपंचछटु" मिति प्राकृतशैल्या 'छट्ट' 'अट्ठ' इत्येतयोः पदयोर्निर्देशः, ततोऽयमर्थः - पष्ठमष्टमं च वर्जयित्वेति, अथ नामैवंरूपोऽपि भङ्गो भवति तदैवं गम्यते —ये एकवेष्टका अव्यवधानेन चत्वारः परमाणवस्ते तथाविधैकत्वपरिणामपरिणतत्वाच - रमः, तस्मादधिकोऽपि समश्रेण्यैव प्रतिबद्धत्वान्न तदतिरिक्त इति सोऽपि तस्मिन्नेव चरमे गण्यते इत्येकं चरसं, पुनश्च योऽधिकमध्ये व्यवस्थित इति स मध्यवर्तित्वादनेकपरिणामित्वाच्च वस्तुनोऽचरमोऽपि ततोs ( तश्चरमा )
Jain Education International
For Personal & Private Use Only
१० चरमाचरमपदे परमाण्वा
दीनां चरमात्वादि
॥ २३८॥
www.jainelibrary.org