________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२३६॥
स्थापना-, तदा समश्रेणिव्यवस्थितद्विप्रदेशावगाढास्त्रयः परमाणयो द्विप्रदेशावगाढ द्विप्रदेशस्कन्धवत् चरमः एकथ विश्रेणिस्थः परमाणुरिव घरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्य इति द्वादशः स्याश्चरमश्चावक्तव्यौ च, स चैवं यदा स चतुष्पदेशात्मकः स्कन्धश्चतुर्ष्याकाशप्रदेशेषु एवमवगाहते - द्वौ परमाणू द्वयोः समश्रेण्या व्यवस्थितयोराकाशप्रदेशयोः द्वौ परमाणू द्वयोर्विश्रेण्या व्यवस्थितयोः, स्थापना, तदा द्वौ परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढ द्विप्रदेशस्कन्धवत् चरमः द्वौ च परमाणू विश्रेणिव्यवस्थितौ केवल परमाणुक्चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यावित्यवक्तव्यौ, त्रयोविंशतितमः स्याच्चरमी चाचरमश्चावक्तव्यश्च कथमिति चेद्, उच्यते, इह यदा स - प्रदेशकः स्कन्धः चतुर्ष्याकाशप्रदेशेष्वेवमवगाहते - त्रयः परमाणावस्त्रिषु समश्रेण्या व्यवस्थितेष्वाकाशप्रदेशेषु एको विश्रेणिस्थे प्रदेशे, स्थापना - तदा त्रिषु परमाणुषु समश्रेणिव्यवस्थितेषु मध्ये आद्यन्तौ परमाणू पर्यन्तवर्तित्वाचरमौ मध्यमस्त्वचरमः विश्रेणिस्थस्त्ववक्तव्य इति वक्ष्यति च - "पढमो तहओ नवमो दसमो इकारसो य बारसमो भङ्गा च उप्पएसे तेवीसइमो य बोद्धवो ॥ १ ॥ गतार्था । ' पंचपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह - 'गोयमा ! सिय चरमे' इत्यादि, इह प्रथमतृतीय सप्तम नवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितम चतुर्विंशतितमपञ्चविंशतितमरूपा एकादश भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, यक्ष्यति च - "पढमो तहओ सत्तम नवदसइक्कारबार तेरसमो । तेवीसचउबीसा पणवीसइमो य पंचमए ॥ १ ॥ तत्रायं प्रथमो भङ्गः स्याचरम
Jain Education International
For Personal & Private Use Only
१० चरमाचरमपदे
परमाण्वा
दीनां चरमात्वादि
॥२३६॥
www.jainelibrary.org