SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ रमः, एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्या व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः. वक्ष्यति च “पढमो तइओ नवमो इक्कारसमो य तिपएसे" अस्थायमर्थः-त्रिप्रदेशे स्कन्धे प्रथमो भङ्गश्चरम इति, तृतीयोऽवक्तव्य इति, नवमश्चरमौ चाचरमश्च, एकादशश्वरमश्चावक्तव्यश्चेति भवति, शेषा भङ्गा न घटन्ते ॥ 'चउ४पएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'गोयमा ! सिय चरमें' इत्यादि, अत्र प्रथमत-18 तीयनवमदशमैकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, तत्र प्रथमभङ्गोऽयम्-'स्थाचरम' इति, इह यदा चतुष्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते स्थापनातदा चरमः, सा च चरमत्वभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धवद् भावनीया, तृतीयो भङ्गः। | स्यादवक्तव्य इति, स चैवं-यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते स्थापना-तदा परमाणुवदवक्तव्यः, नवमः 'स्याच्चरमौ चाचरमश्च' स चै-यदा स चतुष्प्रदेशात्मकः स्कन्धः त्रिष्वाकाशप्रदेशेष्वेवमवगाहते, स्थापना-तदा आद्यन्तप्रदेशावगाढौ चरमौ मध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याचरमौ चाचरमौ च, तत्र | यदा चतुष्प्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुर्णाकाशप्रदेशेषु एवमवगाहते, स्थापना-तदाऽऽद्यन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ द्वयोस्तु मध्यमयोराकाशप्रदेशयोरवगाढौ द्वौ परमाणू अचरमाविति, एकादशः स्थाश्चरमश्चावक्तव्यश्च, स चैवं-यदा स चतुष्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy