SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. ॥२३५॥ तइओ य होइ दुपएसे” अस्थायमर्थः-द्विप्रदेशिके स्कन्धे प्रथमो भङ्गः-चरम इति, तृतीयः-अवक्तव्य इति भवति,१०चरमाशेषास्तु प्रतिषेध्याः , असंभवात् , स चासंभवः सुप्रतीत एव । 'तिपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत. चरमपदे निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इह यदा त्रिप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थित- परमाण्वायोरेवमवगाढो भवति, स्थापना-,तदाऽसौ चरमः, सा चरमत्वभावना द्विप्रदेशिकस्कन्धवद् भावनीया, अचरम दीनां चर मात्वादि प्रतिषेधः प्राग्वत् , 'स्यादवक्तव्य' इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् चरमाचरमव्यपदेशकारणशून्यतया चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्यः, चतुर्थादयोऽष्टमपयन्ताः प्रतिषेध्याः, असंभवात् , असंभवस्तु सुप्रतीतत्वात् खयमुपयुज्य वक्तव्यः, नवमस्तु ग्राह्यः, तथा चाह'सिय चरमाइं च अचरमे य' प्राकृते द्वित्वेऽपि बहुवचनं, ततोऽयमर्थः-स्यात्-कदाचिदयं भङ्गः-चरमौ अचरमश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते, स्थाना-तदाऽऽदिमान्तिमौ द्वौ परमाणू पर्यन्तवर्तित्वाचरमौ मध्यमस्तु मध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यः, स्कन्धस्य ॥२३५॥ त्रिप्रदेशिकतया चरमाचरमशब्दयोबहुवचननिमित्तासंभवात, एकादशस्तु ग्राह्यः, तथा चाह-'सिय चरमे य अव- त्तवए य' स्यात्-कदाचिदयं भङ्गश्चरमश्चावक्तव्यश्च, तत्र यदा स त्रिप्रदेशिकः समश्रेण्या विश्रेण्या चैवमवगाहते| स्थापना-तदा द्वौ परमाणू समश्रेण्या व्यवस्थिताविति द्विप्रदेशावगाढद्विप्रदेशस्कन्धवचरमव्यपदेशकारणभावतश्च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy