SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ - स्थापना-सर्वसंकलनया षड्राविंशतिः । अत्र निर्वचनमाह-'परमाणुपोग्गले नो परमे' इत्यादि, परमाणुपदलचरमो न भवति, चरमत्वं ह्यन्यापेक्षं, न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुयेनांशापेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् (तस्य), तस्मान्न चरमो, नाप्यचरमः, निरवयवतया मध्यत्वायोगात्, किन्त्ववक्तव्यः, चरमाचरमव्यपदेशकारण तः] शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात् , वक्तुं शक्यं हि वक्तव्यं, यत्तु चरमशब्देन अचरमशब्देन वा खखनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति स्थापना-शेषास्तु भङ्गाः प्रतिषेध्याः, परमाणो तेषामसंभवात् , वक्ष्यति च-"परमाणुंमि य तहओ” अस्थायमर्थः-परमाणी-परमाणुचिन्तायां तृतीयो भङ्गः परिग्राह्यः, शेषास्तु निरवयवत्वेन प्रतिषेध्याः। 'दुपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'सिय चरमे नो अचरमे सिय अवत्तवए' इत्यादि, द्विप्रदेशिकः स्कन्धः स्यात्-कदाचित् चरमः, कथमिति चेत् , उच्यते, इह यदा द्विप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थिततया, स्थापना-तदा एकोऽपि परमाणुरपरपरमाण्वपेक्षया चरमः, अपरोऽप्यपरपरमाण्वपेक्षया चरम इति चरमः, अचरमस्तु न भवति, सर्व द्रव्याणामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणुवत् चरमाचरमव्यपदेशकारणशून्यत्यान्न चरमशब्देन व्यपदेष्टुं शक्यते नाप्यचरमशब्देनेति अवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति “पढमो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy