________________
DOST
भावात् , यथा तथाविधान्यशरीरापेक्षया मध्यशरीरमचरमशरीरं, तदेवं चरमाऽचरमेत्येकवचनान्तः प्रश्नः कृतः, सम्प्रति बहुवचनान्तमाह-'चरमाई अचरमाई' इति, एतानि चत्वारि प्रश्नसूत्राणि तथाविधैकत्वपरिणामविशिष्टद्रव्यविषयाणि कृतानि, सम्प्रति प्रदेशानधिकृत्य प्रश्नसूत्रद्वयमाह-'चरमंतपएसा य अचरमंतपएसा य' इति, चरमाण्यवान्तवर्तित्वात् अन्ताथरमान्तास्तत्प्रदेशाध चरमान्तप्रदेशाः, अचरममेव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्तः अचरमान्तस्ततादेशा अपरमान्तप्रदेशाः। तदेवं षट्सु प्रश्नेषु कृतेषु भगवानाह-गौतम! सा रत्नप्रभा पृथिवी न चरमा, चरमत्वं सापेक्षिकमित्युक्तं, न चानान्यदपेक्षणीयमस्ति, केवलाया एव तदन्यनिरपेक्षायाः पृष्टत्वात्, नाप्यचरमा, सत एव हेतोः, तथाहि-अचरमत्वमपि आपेक्षिकं, न पात्रान्यदपेक्षणीयमस्तीति, किमुक्तं भवति-इयं रत्नप्रभा पृथिवी न पश्चिमा नापि मध्यमा, तदन्यस्यापेक्षणीयस्याविवक्षणादिति, अत एव न चरमाणि, चरमत्वव्यपदेशस्यैवासंभवतस्तद्विषयबहुवचनासंभवात्, तथाहि-यदा तस्याश्चरमत्वव्यपदेश एवोक्तयुक्तेर्नोपपद्यते तदा कथं तद्विषयं बहुवचनमुपपचुपईतीति ?, एवमचरमावपि प्रतिषेधनीयानि, प्रागुक्तयुक्तेरचरमत्वव्यपदेशस्थासंभवात् , तथा न च चरमान्तप्रदेशा नाप्यचरमान्तप्रदेशाः, उक्तयुक्त्या चरमत्वस्वाचरमत्वस्य चासंभवतस्तत्प्रदेशकल्पनाया अप्यसंभवात्,
यद्येवं तर्हि किंखरूपा मा? इत्यत माह-नियमाद् नियमेनाचरमं चरमाणि च, किमुक्तं भवति ?-यदीयमखराण्डरूपा विवक्षितत्वात् (श्व) पृच्छयते तदा बथोक्तभङ्गानामेकेनापि भनेन व्यपदेशो न भवति, यदा त्वसवेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org